|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.31. अध्यायः 031
Mahabharata - Sabha Parva - Chapter Topics
प्राचीं दिशं निर्जित्य भीमस्य प्रतिनिवर्तनम्॥1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच।
ततः कुमारविषये श्रेणिमन्तमथाजयत्।
कोसलाधिपतिं चैव बृहद्बलमरिन्दमः॥ 2-31-1(12576)
अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम्।
अजयत्णण्डवश्रेष्ठो नातितीव्रेण कर्मणा॥ 2-31-2(12577)
ततो गोपालकक्षं च सोत्तरानपि कोसलान्।
मल्लानामधिपं चैव पार्थिवं चाजयत्प्रभुः॥ 2-31-3(12578)
ततो हिमवतः पार्श्वं समभ्येत्य जलोद्भवम्।
सर्वमल्पेन कालेन देशं चक्रे वशं बली॥ 2-31-4(12579)
एवं बहुविधान्देशान्विजिग्ये भरतर्षभः।
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम्॥ 2-31-5(12580)
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः।
स काशिराजं समरे सुबाहुमनिवर्तिनम्॥ 2-31-6(12581)
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः।
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्॥ 2-31-7(12582)
युध्यमानं बालत्सङ्ख्ये विजिग्ये पाण्डवर्षभः।
ततो मत्स्यान्महातेजा मलदांश्च महाबलान्॥ 2-31-8(12583)
अनघानभयांश्चैव पशुभूमिं च सर्वशः।
निवृत्य च महाबाहुर्मदधारं महीधरम्॥ 2-31-9(12584)
सोमधेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः।
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्॥ 2-31-10(12585)
भर्गाणामधिपं चैव निषादाधिपतिं तथा।
विजिग्ये भूमिपालांश्च ममिमत्प्रमुखान्बहून्॥ 2-31-11(12586)
ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम्।
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा॥ 2-31-12(12587)
शर्मकान्वर्मकांश्चैव व्यजयत्सान्त्वपूर्वकम्।
वैदेहकं च राजानं जनकं जगतीपतिम्॥ 2-31-13(12588)
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा।
शकांश्च बर्बराश्चैव अजयच्छद्मपूर्वकम्॥ 2-31-14(12589)
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्।
किरातानामधिपतीनजयत्सप्त पाण्डवः॥ 2-31-15(12590)
ततः सुह्यान्प्रसुह्यांश्च सपक्षानतिवीर्यवान्।
विजित्य युधि कौन्तेयो मागधानभ्यधाद्बली॥ 2-31-16(12591)
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्।
तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत्॥ 2-31-17(12592)
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह।
तैरेव सहितैः सर्वैः कर्णमब्यद्रवद्बली॥ 2-31-18(12593)
स कम्पयन्निव महीं बलेन चतुङ्गिणा।
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना॥ 2-31-19(12594)
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत।
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः॥ 2-31-20(12595)
अथ मोदागिरौ चैव राजानं बलवत्तरम्।
पाण्डवो बाहुवीर्येण निजघान महामृधे॥ 2-31-21(12596)
ततः पुण्ड्राधिपं वीरं वासुदेवं समाययौ।
`इदानीं वृष्णिवीरेण न योत्स्यामीति पौण्ड्रकः॥ 2-31-22(12597)
कृष्णस्य भुजसंत्रासात्करमाशु ददौ नृपः'।
कौशिकीकच्छनिलयं राजानं च महौजसम्॥ 2-31-23(12598)
उभौ बलभृतौ वीरावुमौ तीव्रपराक्रमौ।
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्॥ 2-31-24(12599)
समुद्रसेन निर्जित्य चन्द्रसेनं च पार्थिवम्।
ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा॥ 2-31-25(12600)
सुह्यानामधिपं चैव ये च सागरवासिनः।
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः॥ 2-31-26(12601)
एवं बहुविधान्देशान्विजित्य पवनात्मजः।
वसु तेभ्य उपादाय लौहित्यमगद्बली॥ 2-31-27(12602)
स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः।
करमाहारयामास रत्नानि विविधानि च॥ 2-31-28(12603)
चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्।
काञ्चनं रजतं चैव विद्रुमं च महाधनम्॥ 2-31-29(12604)
ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा।
अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम्॥ 2-31-30(12605)
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः।
निवेदयामास तदा धर्मराजाय तद्धनम्॥ ॥ 2-31-31(12606)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकत्रिंशोऽध्यायः॥ 32॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-31-16 सुह्या राढाः मागधानभ्यधाद्बली करं प्रयच्छतेत्युक्तवान्। पूर्वमेव पराकान् तत्वात्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|